श्री नारायण हृदय स्तोत्रम् | Shri Narayan Hridaya Stotram

श्री नारायण हृदय स्तोत्रम एक प्राचीन वेदिक मंत्र है जो हमें दिव्यता और आत्मा के साथ मिलने का अद्भुत अनुभव कराता है। यह मंत्र भगवान नारायण की कृपा, शांति, और प्रेम को अपने हृदय में स्थापित करने का साधन है, जिससे जीवन में समृद्धि और आत्मिक शक्ति मिलती है।

श्री नारायण हृदय स्तोत्र एक पवित्र और शक्तिशाली स्तोत्र है जो भगवान विष्णु के सुदर्शन चक्र के भीतर स्थित उनके दिव्य हृदय की स्तुति करता है। इसे प्राचीन ग्रंथ अथर्व रहस्य में पाया जाता है और माना जाता है कि यह ऋषि भार्गव द्वारा रचित है।

श्री नारायण हृदय स्तोत्रम् | Shri Narayan Hridaya Stotram

अस्य श्रीनारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप्छंदः, श्रीलक्ष्मीनारायणो देवता, ॐ बीजं, नमश्शक्तिः, नारायणायेति कीलकं, श्रीलक्ष्मीनारायण प्रीत्यर्थे जपे विनियोगः ।

करन्यासः ।
ॐ नारायणः परं ज्योतिरिति अंगुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
नारायणः परो देव इति मध्यमाभ्यां नमः ।
नारायणः परं धामेति अनामिकाभ्यां नमः ।
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।
विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ।
अंगन्यासः ।
नारायणः परं ज्योतिरिति हृदयाय नमः ।
नारायणः परं ब्रह्मेति शिरसे स्वाहा ।
नारायणः परो देव इति शिखायै वौषट् ।
नारायणः परं धामेति कवचाय हुम् ।
नारायणः परो धर्म इति नेत्राभ्यां वौषट् ।
विश्वं नारायण इति अस्त्राय फट् ।
दिग्बंधः ।
ॐ ऐंद्र्यादिदशदिशं ॐ नमः सुदर्शनाय सहस्राराय हुं फट् बध्नामि नमश्चक्राय स्वाहा । इति प्रतिदिशं योज्यम् ।

अथ ध्यानम् ।
उद्यादादित्यसंकाशं पीतवासं चतुर्भुजम् ।
शंखचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥ 1 ॥

त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानंतभोगी
तन्मध्ये भूमिपद्मांकुशशिखरदलं कर्णिकाभूतमेरुम् ।
तत्रस्थं शांतमूर्तिं मणिमयमकुटं कुंडलोद्भासितांगं
लक्ष्मीनारायणाख्यं सरसिजनयनं संततं चिंतयामि ॥ 2 ॥

अथ मूलाष्टकम् ।
ओम् ॥ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ 1 ॥

नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥ 2 ॥

नारायणः परं धाम ध्यानं नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥ 3 ॥

नारायणः परोवेद्यः विद्या नारायणः परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 4 ॥

नारायणाद्विधिर्जातो जातो नारायणाद्भवः ।
जातो नारायणादिंद्रो नारायण नमोऽस्तु ते ॥ 5 ॥

रविर्नारायणस्तेजः चंद्रो नारायणो महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥ 6 ॥

नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥ 7 ॥

नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
सेव्योनारायणः शुद्धो नारायण नमोऽस्तु ते ॥ 8 ॥ [हरि]

अथ प्रार्थनादशकम् ।
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥ 9 ॥

त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् ।
नानोपासनमार्गाणां भवकृद्भावबोधकः ॥ 10 ॥

भावार्थकृद्भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥ 11 ॥

त्वदधिष्ठानमात्रेण सा वै सर्वार्थकारिणी ।
त्वमेतां च पुरस्कृत्य सर्वकामान्प्रदर्शय ॥ 12 ॥

न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥ 13 ॥

यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत्साध्या सर्वथा सर्वदा विभो ॥ 14 ॥

पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 15 ॥

त्वयाहं नैव सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 16 ॥

पापसंघपरिश्रांतः पापात्मा पापरूपधृत् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्रातास्ति जगतीतले ॥ 17 ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव सेव्यश्च गुरुस्त्वमेव
त्वमेव सर्वं मम देव देव ॥ 18 ॥

प्रार्थनादशकं चैव मूलाष्टकमतः परम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 19 ॥

नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विनाकृतम् ॥ 20 ॥

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुद्ध्यति सर्वदा ।
एतत्संकलितं स्तोत्रं सर्वकामफलप्रदम् ॥ 21 ॥

लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
जपेद्यः संकलीकृत्य सर्वाभीष्टमवाप्नुयात् ॥ 22 ॥

नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥ 23 ॥

पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ।
पुनर्नारायणं जाप्यं संकलीकरणं भवेत् ॥ 24 ॥

एवं मध्ये द्विवारेण जपेत्संकलितं तु तत् ।
लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥ 25 ॥

तद्वज्जपादिकं कुर्यादेतत्संकलितं शुभम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥ 26 ॥

गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्राप्तं ब्रह्मादिकैः पुरा ॥ 27 ॥

तस्मात्सर्वप्रयत्नेन गोपयेत्साधयेसुधीः ।
यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ॥ 28 ॥

भूतपैशाचवेताल भयं नैव तु सर्वदा ।
लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ॥ 29 ॥

भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ।
सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
गोपनात्साधनाल्लोके धन्यो भवति तत्त्वतः ॥ 30 ॥

इत्यथर्वरहस्ये उत्तरभागे नारायणहृदयं संपूर्णम् ।

सुनें श्री नारायण हृदय स्तोत्रम् | Listen Shri Narayan Hridaya Stotram

SHRI NARAYANA HRIDAYA STOTRA BY AARYAM सम्पूर्ण समृद्धि हेतु श्री नारायण हृदय स्तोत्र : आर्यम

श्री नारायण हृदय स्तोत्रम् के लाभ | Shri Narayan Hridaya Stotram Benefits of

  1. दिव्य प्रेम और शांति: श्री नारायण हृदय स्तोत्रम का जाप करने से दिल में भगवान के प्रति दिव्य प्रेम और शांति का अनुभव होता है।
  2. आत्मा का संयम: यह मंत्र आत्मा के साथ मिलने में सहायक होता है और जीवन को आत्मिकता की ऊँचाइयों तक पहुंचाता है।
  3. आत्मा के साथ समर्पण: श्री नारायण हृदय स्तोत्रम का पाठ करने से हम अपनी आत्मा को भगवान के सामर्थ्य में समर्पित करते हैं।

मंत्र जप की सावधानियां:

  1. शुद्धि और संकल्प: मंत्र जप से पहले, श्रद्धालु को अपने मन को शुद्ध करना चाहिए और संकल्प लेना चाहिए कि उन्हें भगवान की प्राप्ति होगी।
  2. ध्यान और धारणा: मंत्र का जाप करते समय ध्यान और धारणा में रहना चाहिए, जिससे मंत्र का पूरा अर्थ समझा जा सके।
  3. नियमितता: इस मंत्र का नियमित रूप से जप करना चाहिए, जिससे उसके प्रभाव को सही तरीके से महसूस किया जा सकता है।

Leave a Comment