श्रीमद्भगवद्गीता सप्तमोऽध्यायः | Srimadbhagvadgita saptamodhyayah

“श्रीमद्भगवद्गीता सप्तमोऽध्यायः” ज्ञानविज्ञानयोग को विस्तृत रूप से वर्णित करता है। इस अध्याय में भगवान श्रीकृष्ण जीवन के उद्देश्य की प्राप्ति के लिए ज्ञान और भक्ति के माध्यम से आत्मा को परमात्मा से मिलाने की मार्गदर्शन करते हैं।

श्रीमद्भगवद्गीता सप्तमोऽध्यायः | Srimadbhagvadgita saptamodhyayah

अथ सप्तमोऽध्यायः ।

श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युंजन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 1 ॥

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ 2 ॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3 ॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4 ॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5 ॥

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6 ॥

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7 ॥

रसोऽहमप्सु कौंतेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8 ॥

पुण्यो गंधः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9 ॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10 ॥

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11 ॥

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12 ॥

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13 ॥

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यंते मायामेतां तरंति ते ॥ 14 ॥

न मां दुष्कृतिनो मूढाः प्रपद्यंते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15 ॥

चतुर्विधा भजंते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16 ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ 17 ॥

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18 ॥

बहूनां जन्मनामंते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19 ॥

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यंतेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20 ॥

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21 ॥

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ 22 ॥

अंतवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवांदेवयजो यांति मद्भक्ता यांति मामपि ॥ 23 ॥

अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धयः ।
परं भावमजानंतो ममाव्ययमनुत्तमम् ॥ 24 ॥

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25 ॥

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26 ॥

इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यांति परंतप ॥ 27 ॥

येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजंते मां दृढव्रताः ॥ 28 ॥

जरामरणमोक्षाय मामाश्रित्य यतंति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29 ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥7 ॥

श्रीमद्भगवद्गीता सप्तमोऽध्यायः सुनें | Listen Srimadbhagvadgita saptamodhyayah

श्रीमद भगवत गीता सार- अध्याय 7 |Shrimad Bhagawad Geeta With Narration |Chapter 7 | Shailendra Bharti

श्रीमद्भगवद्गीता सप्तमोऽध्यायः के लाभ | Benefits of Srimadbhagvadgita saptamodhyayah

  1. आत्मा के परमात्मा के साथ मिलान की सीख: इस अध्याय से उपयोगकर्ता को आत्मा को परमात्मा से मिलाने के लिए ज्ञान और भक्ति का महत्वपूर्ण सिद्धांत मिलता है।
  2. भक्ति और ज्ञान का संगम: भगवान श्रीकृष्ण द्वारा बताए गए सिद्धांत से उपयोगकर्ता को भक्ति और ज्ञान के संगम का महत्वपूर्णता समझाई जाती है।
  3. संसार में जीवन का सही दृष्टिकोण: ज्ञानविज्ञानयोग के माध्यम से इस अध्याय से उपयोगकर्ता को संसार में उच्चतम जीवन का सही दृष्टिकोण मिलता है।

सावधानियां:

  1. ध्यानपूर्वक पठें: ज्ञानविज्ञानयोग के पठन में समर्थ बनने के लिए यह जरूरी है कि आप शांति और ध्यान में हों।
  2. भक्ति और ज्ञान का अभ्यास करें: इस अध्याय के सिद्धांतों को अपनाने के लिए भक्ति और ज्ञान का नियमित अभ्यास करें।
  3. गुरु के मार्गदर्शन में रहें: गुरु के मार्गदर्शन में रहकर ज्ञान और भक्ति के सिद्धांतों को समझने का प्रयास करें।

Leave a Comment