Digital Marketing Banner

देवा मनुष्याः पितरः – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः | Deva Manushyah Pitarah – Krishna Yajurveda Taittiriya Samhita Patha

Deva Manushyah Pitarah - Krishna Yajurveda Taittiriya Samhita Patha

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे चतुर्थः प्रश्नः – इष्टिविधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚-ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाग्ं॑सि पिशा॒चास्ते᳚ ऽन्यत॒स्तेषा᳚-न्दे॒वाना॑मु॒त यदल्पं॒-लोँहि॑त॒मकु॑र्व॒-न्त-द्रक्षाग्ं॑सि॒ रात्री॑भिरसुभ्न॒-न्तान्-थ्सु॒ब्धा-न्मृ॒तान॒भि व्यौ᳚च्छ॒-त्ते दे॒वा अ॑विदु॒र्यो वै नो॒-ऽय-म्म्रि॒यते॒ रक्षाग्ं॑सि॒ वा इ॒म-ङ्घ्न॒न्तीति॒ ते रक्षा॒ग्॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्. वरं॑-वृँणामहै॒ य- [यत्, असु॑रा॒न् जया॑म॒] 1

-दसु॑रा॒न् जया॑म॒ तन्न॑-स्स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒-न्ते-ऽसु॑रान् जि॒त्वारक्षा॒ग्॒स्यपा॑नुदन्त॒ तानि॒ रक्षा॒ग्॒स्यनृ॑तम क॒र्तेति॑ सम॒न्त-न्दे॒वा-न्पर्य॑विश॒-न्ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚-ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒-ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒. यान्ये॒व पु॒रस्ता॒-द्रक्षा॒ग्॒- [पु॒रस्ता॒-द्रक्षा॒ग्ं॑सि, आ॒स॒न्तानि॒ तेन॒] 2

-स्यास॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षा॒ग्॒स्यास॒-न्तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चा-द्रक्षा॒ग्॒स्यास॒-न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒-न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्-थ्स्या-थ्स स्पर्ध॑मान ए॒तयेष्​ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒- [विबा॒धव॑ते॒, अ॒ग्नये॒ प्रती॑कवते॒] 3

-ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्-भ्रातृ॑व्य॒स्त-न्तेन॒ प्रणु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृन्त-न्तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒-त्पापी॑या॒-न्त-न्तेनाप॑ नुदते॒ प्र श्रेयाग्ं॑स॒-म्भ्रातृ॑व्य-न्नुद॒तेति॑ स॒दृश॑-ङ्क्रामति॒ नैन॒-म्पापी॑यानाप्नोति॒ य ए॒वं ​विँ॒द्वाने॒तयेष्​ट्या॒ यज॑ते ॥ 4 ॥
(वृ॒णा॒म॒है॒ यत् – पु॒रस्ता॒-द्रक्षाग्ं॑सि- वपेद॒ग्नये॑ विबा॒धव॑त – ए॒वं – च॒त्वारि॑ च) (अ. 1)

दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒-न्ते दे॒वा अ॑ब्रुव॒न्॒. यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒-न्त्वं-वैँ नो॑ वी॒र्या॑वत्तमो-ऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो᳚-ऽब्रवी-त्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथा-सु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमग्ं॑ हो॒मुगि॒यं-विँ॑मृ॒धेय-मि॑न्द्रि॒याव॒ती- [-मि॑न्द्रि॒याव॒ती, इत्य॑ब्रवी॒त्त] 5

-त्य॑ब्रवी॒त्त इन्द्रा॑याग्ं हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒-न्निर॑वप॒न्निन्द्रा॑य वैमृ॒धाये-न्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याग्ं हो॒मुचे॑ नि॒रव॑प॒न्नग्ंह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वै मृ॒धाय॒ मृध॑ ए॒व तेनापा᳚घ्नत॒यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒-ऽऽत्मन्न॑दधत॒ त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश॒-न्निर॑वप॒-न्त्रय॑स्त्रिग्ंश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑भं​यँत॒ भूत्यै॒ [भूत्यै᳚, तां-वाँव] 6

तां-वाँव दे॒वा विजि॑ति-मुत्त॒मा-मसु॑रै॒-र्व्य॑जयन्त॒यो भ्रातृ॑व्यवा॒न्थ्- स्या-थ्स स्पर्ध॑मान ए॒तयेष्​ट्या॑ यजे॒तेन्द्रा॑याग्ं हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒-न्निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒ते-ऽग्ं ह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒-न्भ्रातृ॑व्यो॒यदिन्द्रा॑याग्ं हो॒मुचे॑ नि॒र्वप॒त्यग्ंह॑स ए॒व तेन॑ मुच्यतेमृ॒धा वा ए॒षो॑-ऽभिष॑ण्णो॒ यस्मा᳚-थ्समा॒नेष्व॒न्य-श्श्रेया॑नु॒ता- [श्रेया॑नु॒त, अ-ऽभ्रा॑तृव्यो॒] 7

-ऽभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्म-न्ध॑त्ते॒ त्रय॑स्त्रिग्ंशत्कपाल-म्पुरो॒डाश॒-न्निर्व॑पति॒ त्रय॑स्त्रिग्ंश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑भं​यँते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं-विँ॒द्वाने॒तयेष्​ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒-म्भ्रातृ॑व्येण॒ वि ज॑यते ॥ 8 ॥
(इ॒न्द्रि॒याव॑ती॒ – भूत्या॑ – उ॒तै – का॒न्न प॑ञ्चा॒शच्च॑) (अ. 2)

दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आस॒-न्तेषा᳚-ङ्गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्य॑-म्प्र॒जा-म्प॒शून्-थ्स॒गृंह्या॒ ऽऽदाया॑-प॒क्रम्या॑तिष्ठ॒-त्ते॑-ऽमन्यन्त यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒द-म्भ॑विष्य॒न्तीति॒ तां-व्यँ॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑रा॒-स्सा नान्य॑त॒राग्​श्च॒-नोपाव॑र्तत॒ ते दे॒वा ए॒त-द्यजु॑रपश्य॒न्नोजो॑-ऽसि॒ सहो॑-ऽसि॒ बल॑मसि॒ [बल॑मसि, भ्राजो॑-ऽसि] 9

भ्राजो॑-ऽसि दे॒वाना॒-न्धाम॒ नामा॑-ऽसि॒ विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्य॑-म्प्र॒जा-म्प॒शून॑वृञ्जत॒ य-द्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒-त्तस्मा॑दे॒ता-ङ्गा॑य॒त्रीतीष्टि॑माहु-स्सं​वँथ्स॒रो वै गा॑य॒त्री सं॑​वँथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒-द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्य॑- [बल॑मिन्द्रि॒यं-वीँ॒र्य᳚म्, प्र॒जा-म्प॒शू-] 10

-म्प्र॒जा-म्प॒शू-नवृ॑ञ्जत॒ तस्मा॑दे॒ताग्ं सं॑​वँ॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्​स्या-थ्सस्पर्ध॑मान ए॒तयेष्​ट्या॑ यजेता॒ग्नये॑ सं​वँ॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पे॒त्​तग्ंशृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒-ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं-वीँ॒र्य॑-म्प्र॒जा-म्प॒शू-न्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ 11
(बल॑मस्ये॒ – तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्यं॑ – पञ्च॑चत्वारिग्ंशच्च) (अ. 3)

प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मा-थ्सृ॒ष्टाः परा॑चीराय॒-न्ता यत्राव॑स॒-न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒-त्ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒ग्ं॒ सो᳚-ऽब्रवी॒-द्बृह॒स्पति॑र॒नया᳚ त्वा॒ प्रति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ त-म्प्राति॑ष्ठ॒-त्ततो॒ वै प्र॒जाप॑ति-म्प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑म॒-स्स्या-त्तस्मा॑ ए॒त-म्प्रा॑जाप॒त्य-ङ्गा᳚र्मु॒त-ञ्च॒रु-न्निर्व॑पे-त्प्र॒जाप॑ति- [-निर्व॑पे-त्प्र॒जाप॑तिम्, ए॒व स्वेन॑] 12

-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जा-म्प्रज॑नयतिप्र॒जाप॑तिः प॒शून॑सृजत॒ ते᳚-ऽस्मा-थ्सृ॒ष्टाः परा᳚ञ्च आय॒-न्ते यत्राव॑स॒-न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒-त्ता-न्पू॒षा चा॒न्ववै॑ता॒ग्ं॒ सो᳚-ऽब्रवी-त्पू॒षा-ऽनया॑ मा॒ प्रति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ मा-म्प्रति॒ष्ठेति॒ सोमो᳚-ऽब्रवी॒-न्मम॒ वा [-मम॒ वै, अ॒कृ॒ष्ट॒प॒च्यमित्यु॒भौ] 13

अ॑कृष्टप॒च्यमित्यु॒भौ वा॒-म्प्रति॑ष्ठा॒नीत्य॑ब्रवी॒-त्तौ प्राति॑ष्ठ॒-त्ततो॒ वै प्र॒जाप॑ति-म्प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑म॒-स्स्या-त्तस्मा॑ ए॒तग्ं सो॑मापौ॒ष्ण-ङ्गा᳚र्मु॒त-ञ्च॒रु-न्निर्व॑पे-थ्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शू-न्प्रज॑नयत॒-स्सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒ना-म्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शू-न्प्रज॑नयति ॥ 14 ॥
(व॒पे॒-त्प्र॒जाप॑तिं॒ – ​वैँ – दधा॑ति पू॒षा – त्रीणि॑ च) (अ. 4)

अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्​ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥ स॒वि॒ता य-स्स॑ह॒स्रिय॒-स्स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥ येन॑ दे॒वा अ॒मृत॑- [अ॒मृत᳚म्, दी॒र्घग्ग्​ श्रवो॑ दि॒व्यैर॑यन्त ।] 15

-न्दी॒र्घग्ग्​ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्य॒-ङ्गवा᳚ङ्कु॒ल्मि-ञ्जी॒वस॒ आ यु॑वस्व ॥ अ॒ग्नि र्गृ॒हप॑ति॒-स्सोमो॑ विश्व॒वनि॑-स्सवि॒ता सु॑मे॒धा-स्स्वाहा᳚ ॥ अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्​ठ्या᳚त्प॒थो मा यो॑ष-म्मू॒र्धा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ 16 ॥
(अ॒मृत॑ – म॒ष्टात्रिग्ं॑शच्च) (अ. 5)

चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं-वैँ चि॒त्रा यद्वा अ॒स्यां-विँश्व॑-म्भू॒तमधि॑ प्र॒जाय॑ते॒ ते ने॒यञ्चि॒त्रा य ए॒वं-विँ॒द्वाग्​ श्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑ र्मिथु॒नै र्जा॑यते॒ प्रैवाग्ने॒येन॑ वापयति॒ रेत॑-स्सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒त-न्त्वष्टा॑ रू॒पाणि॒ वि क॑रोतिसारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑-म्मिथु॒न-न्दैव्य॑मे॒वास्मै॑ [-दैव्य॑मे॒वास्मै᳚, मि॒थु॒न-म्म॑द्ध्य॒तो] 17

मिथु॒न-म्म॑द्ध्य॒तो द॑धाति॒ पुष्​ट्यै᳚ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै᳚त्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नग्ं स॒प्तैतानि॑ ह॒वीग्ंषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शव॑-स्स॒प्तार॒ण्या-स्स॒प्त छन्दाग्॑स्यु॒-भय॒स्या-व॑रुद्ध्या॒ अथै॒ता आहु॑ती र्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वा स्मि॒-न्पुष्टि॑-न्दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑ती र्जु॒होति॒ प्रति॑ष्ठित्यै ॥ 18 ॥
(अ॒स्मै॒ – त ए॒व – द्वाद॑श च) (अ. 6)

मा॒रु॒तम॑सि म॒रुता॒मोजो॒-ऽपा-न्धारा᳚-म्भिन्धि र॒मय॑त मरुत-श्श्ये॒नमा॒यिन॒-म्मनो॑जव सं॒-वृँष॑णग्ं सुवृ॒क्तिम् ॥ येन॒ शर्ध॑ उ॒ग्रमव॑-सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तग्ग्​ स्व॒स्ति । पु॒रो॒वा॒तो वर्​ष॑ञ्जि॒न्वरा॒वृ-थ्स्वाहा॑ वा॒तावद्- वर्​ष॑न्नु॒ग्ररा॒वृ-थ्स्वाहा᳚ स्त॒नय॒न् वर्​ष॑-न्भी॒मरा॒वथ्​स्वाहा॑ ऽनश॒न्य॑व॒स्फूर्ज॑न्-दि॒द्यु-द्वर्​ष॑न्-त्वे॒षरा॒वृ-थ्स्वाहा॑ ऽतिरा॒त्रं॒-वँर्​ष॑-न्पू॒र्तिरा॒वृ- [-पू॒र्तिरा॒वृत्, स्वाहा॑ ब॒हु] 19

-थ्स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृ-थ्स्वाहा॒ ऽऽतप॑ति॒ वर्​ष॑न्-वि॒राडा॒वृ-थ्स्वाहा॑ ऽव॒स्फूर्ज॑न्-दि॒द्यु-द्वर्​ष॑-न्भू॒तरा॒वृ-थ्स्वाहा॒मान्दा॒ वाशा॒-श्शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒-स्तम॑स्वरी॒-रुन्द॑ती॒-स्सुफे॑नाः । मित्र॑भृतः॒, क्षत्र॑भृत॒-स्सुरा᳚ष्ट्रा इ॒ह मा॑-ऽवत ॥वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्​ट्यै॒ त्वोप॑ नह्यामि ॥ 20 ॥
(पू॒र्तिरा॒वृ-द्- द्विच॑त्वारिग्ंशच्च) (अ. 7)

देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य ॥ देवा᳚-श्शर्मण्या॒ मित्रा॑वरुणा-ऽर्यमन्न् ॥ देवा᳚-स्सपीत॒यो ऽपा᳚-न्नपादाशुहेमन्न् । उ॒द्नो द॑त्तोद॒धि-म्भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्-पृथि॒व्यास्ततो॑ नो॒ वृष्​ट्या॑-ऽवत ॥ दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नो-दवा॒हेन॑ । पृ॒थि॒वीं-यँ-द्व्यु॒न्दन्ति॑ ॥ आय-न्नर॑-स्सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्या᳚-स्सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [ ] 21

वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुत-स्समुद्र॒तो यू॒यं-वृँ॒ष्टिं-वँ॑र्​षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒-श्शुभं॑-याँ॒तामनु॒ रथा॑ अवृथ्सत ॥ सृ॒जा वृ॒ष्टि-न्दि॒व आ-ऽद्भि-स्स॑मु॒द्र-म्पृ॑ण ॥ अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय᳚म् ॥ उन्न॑म्भय पृथि॒वी-म्भि॒न्धीद-न्दि॒व्य-न्नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ विसृ॑जा॒ दृति᳚म् ॥ ये दे॒वा दि॒विभा॑गा॒ ये᳚-ऽन्तरि॑क्ष भागा॒ ये पृ॑थि॒वि भा॑गाः । त इ॒मं-यँ॒ज्ञम॑वन्तु॒ त इ॒द-ङ्क्षेत्र॒मा वि॑शन्तु॒ त इ॒द-ङ्क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ 22 ॥
(य॒न्ति॒ – दे॒वा – विग्ं॑श॒तिश्च॑) (अ. 8)

मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं-वाँसः॑ कृ॒ष्णतू॑ष॒-म्परि॑ धत्त ए॒तद्वै वृष्​ट्यै॑ रू॒पग्ं सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑-वँर्​षयतिर॒मय॑त मरुत-श्श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒त-म्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्॒षस्या व॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्​ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑-वँर्​षयत्य॒ष्टौ [वर्​षयत्य॒ष्टौ, जु॒हो॒ति॒ चत॑स्रो॒ वै] 23

जु॑होति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रो-ऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टि॒ग्ं॒ स-म्प्र च्या॑वयति कृष्णाजि॒ने सं​यौँ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सं​यौँ॒त्य व॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाग्ं शी॒र्॒षाणि॒ परा॑-ऽपत॒न्ते ख॒र्जूरा॑ अभव॒न्-तेषा॒ग्ं॒ रस॑ ऊ॒र्ध्वो॑-ऽपत॒त्-तानि॑ क॒रीरा᳚ण्य-भवन्-थ्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑ति र्दि॒वो वृष्टि॑-ञ्च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति [ ] 24

सौ॒म्ययै॒वा-ऽऽहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं-यौँ᳚त्य॒पां-वाँ ए॒ष ओष॑धीना॒ग्ं॒ रसो॒ यन्मद्ध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्​ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒नि-न्न॑यति॒ मान्दा॒ वाशा॒ इति॒ सं​यौँ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒ वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा – [नाम॒धेयै॒रा, च्या॒व॒य॒ति॒ वृष्णो॒] 25

च्या॑वयति॒ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्​ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्​षति रू॒पेणै॒वैन॒ग्ं॒ सम॑र्धयति व॒र्॒षस्या व॑रुद्ध्यै ॥ 26 ॥
(अ॒ष्टौ – भव॑न्ति – नाम॒धेयै॒रै – का॒न्न त्रि॒ग्ं॒शच्च॑) (अ. 9)

देवा॑ वसव्या॒ देवा᳚-श्शर्मण्या॒ देवा᳚-स्सपीतय॒ इत्या ब॑द्ध्नाति दे॒वता॑भिरे॒वान्व॒हं-वृँष्टि॑मिच्छति॒ यदि॒ वर्​षे॒त्-ताव॑त्ये॒व हो॑त॒व्यं॑-यँदि॒ न वर्​षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒-ङ्खलु॒ वै प॒र्जन्यो॑ वर्​षति॒ नक्तं॑-वाँ॒ हि दिवा॑ वा॒ वर्​ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ [तावे॒वास्मै᳚, अ॒हो॒रा॒त्राभ्यां᳚-] 27

अहोरा॒त्राभ्या᳚-म्प॒र्जन्यं॑ ​वँर्​षयतो॒-ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पेन्मारु॒तग्ं स॒प्तक॑पालग्ं सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुत॑-स्सृ॒ष्टा-न्न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्यं॑-र॒श्मिभिः॑ पर्या॒वर्त॒ते-ऽथ॑वर्​षतिधाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्​षत्ये॒ता वै दे॒वता॒ वृष्​ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता [भाग॒धेये॒नोप॑ धावति॒ ताः, ए॒वास्मै॑] 28

ए॒वास्मै॑ प॒र्जन्यं॑-वँर्​षयन्त्यु॒ता व॑र्​षिष्य॒न् वर्​ष॑त्ये॒व सृ॒जा वृ॒ष्टि-न्दि॒व आ-ऽद्भि-स्स॑मु॒द्र-म्पृ॒णेत्या॑हे॒माश्चै॒वा-मूश्चा॒प-स्सम॑र्धय॒त्यथो॑ आ॒भिरे॒वा-मूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैत-दुन्न॑-म्भय पृथि॒वीमिति॑ वर्​षा॒ह्वा-ञ्जु॑होत्ये॒षा वा ओष॑धीनां-वृँष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ 29 ॥
(अ॒स्मै॒ – धा॒व॒ति॒ ता – वा – एक॑विग्ंशतिश्च ) (अ. 10)

सर्वा॑णि॒ छन्दाग्॑स्ये॒तस्या॒-मिष्ट्या॑-म॒नूच्या॒नीत्या॑हु-स्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑-यँ-त्क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह-क॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दा॒ग्॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यद्ध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒यथा॑ पुरो॒डाशे॑ पुरो॒डाशो-ऽद्ध्ये॒वमे॒व त-द्यद्-ऋ॒च्यद्ध्य॒क्षरा॑णि॒ यज्जग॑त्या [यज्जग॑त्या, प॒रि॒द॒द्ध्यादन्तं॑-] 30

परिद॒द्ध्यादन्तं॑-यँ॒ज्ञ-ङ्ग॑मये-त्त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यं-वैँ वी॒र्य॑-न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञ-म्प्रति॑ष्ठापयति॒ नान्त॑-ङ्गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो य-त्त्रै॑धात॒वीय॒-ङ्कामा॑य-कामाय॒ प्रयु॑ज्यते॒ सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्-थ्सर्वो॒ वा [सर्वो॒ वै, ए॒ष] 31

ए॒ष य॒ज्ञो य-त्त्रै॑धात॒वीय॒ग्ं॒ सर्वे॑णै॒वैनं॑-यँ॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑ण॒-स्सर्वो॒ वा ए॒ष य॒ज्ञो य-त्त्रै॑धात॒वीय॒ग्ं॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर᳚न्-थ्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑-द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नो-ऽन्तं॒-वाँ ए॒ष प॑शू॒ना-ङ्ग॑च्छति॒ [-ग॑च्छति, य-स्स॒हस्रे॑ण॒] 32

य-स्स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ताग्​स्त्रै॑धात॒ वीये॑-नै॒वासृ॑जत॒ य ए॒वं-विँ॒द्वाग्​ स्त्रै॑धात॒वीये॑नप॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्-थ्सृजत॒ उपै॑न॒मुत्त॑रग्ं स॒हस्र॑-न्नमति दे॒वता᳚भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञो [य॒ज्ञः, य-त्त्रै॑धात॒वीय॒ग्ं॒] 33

य-त्त्रै॑धात॒वीय॒ग्ं॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपाला-स्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां-लोँ॒काना॒माप्त्या॒ उत्त॑र-उत्तरो॒ ज्याया᳚-न्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मद्ध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पग्ं समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑बण्ट्कार॒ग्ं॒ हिर॑ण्य-न्ददाति॒ तेज॑ ए॒वा- [ए॒व, अव॑ रुन्धे] 34

-ऽव॑ रुन्धे ता॒र्प्य-न्द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नु-न्द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒-यँजु॑षा-न्ता॒र्प्यमु॑क्थाम॒दाना᳚-न्धे॒नुरे॒ताने॒व सर्वा॒न्॒. वर्णा॒नव॑ रुन्धे ॥ 35 ॥
(जग॑त्या – ऽभि॒चर॒न्-थ्सर्वो॒ वै – ग॑च्छति – य॒ज्ञ – स्तेज॑ ए॒व – त्रि॒ग्ं॒शच्च॑) (अ. 11)

त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ग्ं॒ सोम॒मा-ऽह॑र॒-त्तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ त-न्नोपा᳚ह्वयत पु॒त्र-म्मे॑-ऽवधी॒रिति॒ स य॑ज्ञवेश॒स-ङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒-त्तस्य॒ यद॒त्यशि॑ष्यत॒ त-त्त्वष्टा॑-ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒-थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वः प॑रा॒विद्ध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑-त्प्रव॒ण- [ताव॑-त्प्रव॒णम्, आसी॒द्यदि॑] 36

-मासी॒द्यदि॑ वा॒ ताव॒दद्ध्य॒ग्नेरासी॒-थ्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒-थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒-विँष्व॑ङ्ङवर्धत॒ स इ॒मां-लोँ॒कान॑वृणो॒द्य-दि॒मां-लोँ॒कानवृ॑णो॒-त्त-द्वृ॒त्रस्य॑ वृत्र॒त्व-न्तस्मा॒दिन्द्रो॑-ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒-त्तपो॒ वै स वज्र॑ आसी॒-त्तमुद्य॑न्तु॒-न्नाश॑क्नो॒दथ॒ वै तर्​हि॒ विष्णु॑- [विष्णुः॑, अ॒न्या] 37

-र॒न्या दे॒वता॑ ऽऽसी॒-थ्सो᳚-ऽब्रवी॒-द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒स विष्णु॑स्त्रे॒धा-ऽऽत्मानं॒-विँन्य॑धत्त पृथि॒व्या-न्तृती॑यम॒न्तरि॑क्षे॒ तृती॑य-न्दि॒वि तृती॑य-मभिपर्याव॒र्ता-द्ध्यबि॑भे॒द्यत्-पृ॑थि॒व्या-न्तृती॑य॒मासी॒-त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒-द्विष्ण्व॑नुस्थित॒-स्सो᳚-ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒द- [वा इ॒दम्, मयि॑ वी॒र्य॑-न्त-त्ते॒] 38

-म्मयि॑ वी॒र्य॑-न्त-त्ते॒ प्रदा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒-त्त-त्प्रत्य॑गृह्णा॒दधा॒ मेति॒ त-द्विष्ण॒वे-ऽति॒ प्राय॑च्छ॒-त्त-द्विष्णुः॒ प्रत्य॑गृह्णा-द॒स्मास्विन्द्र॑ इन्द्रि॒य-न्द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒-त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒-द्विष्ण्व॑नुस्थित॒-स्सो᳚-ऽब्रवी॒न्मा मे॒ प्रहा॒रस्ति॒ वा इ॒द- [वा इ॒दम्, मयि॑ वी॒र्य॑-न्त-त्ते॒] 39

-म्मयि॑ वी॒र्य॑-न्त-त्ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒-त्त-त्प्रत्य॑गृह्णा॒-द्द्विर्मा॑-ऽधा॒ इति॒ त-द्विष्ण॒वे-ऽति॒ प्राय॑च्छ॒-त्त-द्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒य-न्द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒-त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒-द्विष्ण्व॑नुस्थित॒-स्सो᳚-ऽब्रवी॒न्मा मे॒ प्रहा॒र्येना॒ह- [प्रहा॒र्येना॒हम्, इ॒दमस्मि॒ त-त्ते॒] 40

-मि॒दमस्मि॒ त-त्ते॒ प्रदा᳚स्या॒मीति॒ त्वी(3) इत्य॑ब्रवी-थ्स॒न्धा-न्तु सन्द॑धावहै॒ त्वामे॒व प्रवि॑शा॒नीति॒ यन्मा-म्प्र॑वि॒शेः कि-म्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒-त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वा-म्प्रवि॑शेय॒मित्य॑ब्रवी॒-त्तं-वृँ॒त्रः प्रावि॑शदु॒दरं॒-वैँ वृ॒त्रः, क्षु-त्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य [भ्रातृ॑व्यो॒ यः, ए॒वं-वेँद॒ हन्ति॒] 41

ए॒वं-वेँद॒ हन्ति॒ क्षुध॒-म्भ्रातृ॑व्य॒-न्तद॑स्मै॒ प्राय॑च्छ॒त्​त-त्प्रत्य॑गृह्णा॒त्- त्रिर्मा॑-ऽधा॒ इति॒ त-द्विष्ण॒वे-ऽति॒ प्राय॑च्छ॒-त्त-द्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒य-न्द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒-त्त्रिः प्र॒त्यगृ॑ह्णा॒-त्त-त्त्रि॒धातो᳚स्त्रिधातु॒त्वं-यँ-द्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वे-ऽति॒ प्राय॑च्छ॒-त्तस्मा॑दैन्द्रावैष्ण॒वग्ं ह॒विर्भ॑वति॒ यद्वा इ॒द-ङ्किञ्च॒ तद॑स्मै॒ त-त्प्राय॑च्छ॒-दृच॒-स्सामा॑नि॒ यजूग्ं॑षि स॒हस्रं॒-वाँ अ॑स्मै॒ त-त्प्राय॑च्छ॒-त्तस्मा᳚-थ्स॒हस्र॑दक्षिणम् ॥ 42 ॥
(प्र॒व॒णं – ​विँष्णु॒- र्वा इ॒द- मि॒द – म॒हं – ​योँ – भ॑व॒ – त्येक॑ विग्ंशतिश्च) (अ. 12)

दे॒वा वै रा॑ज॒न्या᳚-ज्जाय॑माना-दबिभयु॒-स्तम॒न्तरे॒व सन्त॒-न्दाम्ना ऽपौ᳚म्भ॒न्-थ्स वा ए॒षो-ऽपो᳚ब्धो जायते॒ य-द्रा॑ज॒न्यो॑ यद्वा ए॒षो-ऽन॑पोब्धो॒ जाये॑त वृ॒त्रा-न्घ्नग्ग्​ श्च॑रे॒द्य-ङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रा-न्घ्नग्ग्​ श्च॑रे॒दिति॒ तस्मा॑ ए॒तमै᳚न्द्रा बार्​हस्प॒त्य-ञ्च॒रु-न्निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒ र्ब्रह्म॑णै॒वैन॒-न्दाम्नो॒-ऽपोम्भ॑ना-न्मुञ्चति हिर॒ण्मय॒-न्दाम॒ दक्षि॑णा सा॒क्षादे॒वैन॒-न्दाम्नो॒-ऽपोम्भ॑ना-न्मुञ्चति ॥ 43 ॥
(ए॒नं॒ – द्वाद॑श च) (अ. 13)

नवो॑नवो भवति॒ जाय॑मा॒नो-ऽह्ना᳚-ङ्के॒तुरु॒षसा॑ मे॒त्यग्रे᳚ । भा॒ग-न्दे॒वेभ्यो॒ विद॑धात्या॒य-न्प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या अ॒ग्ं॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥प्राच्या᳚-न्दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्यां-वृँत्रहन् वृत्र॒हा-ऽसि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त- [यन्ति॑ स्रो॒त्यास्तत्, जि॒त-न्ते॑] 44

-ज्जि॒त-न्ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ॥ इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथा-ऽस॑त् ॥ अ॒स्येदे॒व प्ररि॑रिचे महि॒त्व-न्दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्त-स्स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ अ॒भि त्वा॑ शूर नोनु॒मो-ऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न- [ईशा॑नम्, अ॒स्य] 45

-म॒स्य जग॑त-स्सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥ त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां-वृँ॒त्रेष्वि॑न्द्र॒ सत्प॑ति॒-न्नर॒स्त्वा-ङ्काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑इन्द्रतेश॒तग्ं श॒त-म्भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्-थ्स॒हस्र॒ग्ं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । 46

सो॒तुर्बा॒हुभ्या॒ग्ं॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्न-स्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒ , वि ज्योति॒षो,दु॒ त्य-ञ्जा॒तवे॑दसग्ंस॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं-विँचक्षण ॥ चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः । आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑- [जग॑तस्त॒स्थुषः॑, च ।] 47

-श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्-हवन॒श्रुतः॑ । जु॒षन्तां॒-युँज्य॒-म्पयः॑ ॥ विश्वे॑ देवा-श्शृणु॒तेमग्ं हव॑-म्मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मि-न्ब॒र्॒हिषि॑ मादयद्ध्वम् ॥ 48 ॥
(त – दीशा॑न॒ – मद्रि॑ – स्त॒स्थुष॑ – स्त्रि॒ग्ं॒शच्च॑) (अ. 14)

(दे॒वा म॑नु॒ष्या॑ – देवसु॒रा अ॑ब्रुवन् – देवासु॒रास्तेषा᳚-ङ्गाय॒त्री – प्र॒जाप॑ति॒स्ता यत्रा-ऽ – ग्ने॒ गोभिः॑ – चि॒त्रया॑ – मारु॒तं – देवा॑ वसव्या॒ अग्ने॑ – मारु॒तमिति॒ – देवा॑ वसव्या॒ देवा᳚-श्शर्मण्याः॒ – सर्वा॑णि॒ – त्वष्टा॑ ह॒तपु॑त्रो – दे॒वा वै रा॑ज॒न्या᳚न् – नवो॑नव॒ – श्चतु॑र्दश )

(दे॒वा म॑नु॒ष्याः᳚ – प्र॒जा-म्प॒शुन् – देवा॑ वसव्याः – परिद॒ध्यदि॒द- मस्​म्य॒ – ष्टा च॑त्वारिग्ंशत् )

(दे॒वा म॑नु॒ष्या॑, मादयध्वं)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे चतुर्थः प्रश्न-स्समाप्तः ॥

Leave a Comment