तैत्तिरीय उपनिषद् – शीक्षावल्ली | Taittiriya Upanishad – Shikshavalli

तैत्तरीय उपनिषद् अत्यन्त महत्वपूर्ण प्राचीनतम दस उपनिषदों में सप्तम उपनिषद् है तथा शिक्षावल्ली, ब्रह्मानन्दवल्ली और भृगुवल्ली इन तीन खंडों में विभक्त है। प्रथम वल्ली अर्थात्‌ शिक्षावल्ली के प्रारम्भ में अधिलोक, अधिज्यौतिष, अधिविद्य, अधिप्रज और अध्यात्म नामक पाँच महासंहिताओं का वर्णन प्राप्त होता है तथा इन पांच संहिताओं की फलश्रुति भी दी गयी है। तैत्तिरीय उपनिषद के शिक्षा वल्ली अध्याय का नाम शिक्षा (संस्कृत: शिक्षा) से लिया गया है, जिसका शाब्दिक अर्थ है “निर्देश, शिक्षा“।

तैत्तिरीय उपनिषद् शीक्षावल्ली स्तोत्र | Taittiriya Upanisha Shikshavalli Stotra

(तै. आ. 7-1-1)

ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥

ॐ श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥

शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्तश्शी᳚क्षाध्या॒यः ॥ 1 ॥
इति द्वितीयो-ऽनुवाकः ॥

स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः ॥ 1 ॥
वायु॑स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू᳚र्वरू॒पम् ॥ 2 ॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनग्ं॑ सन्धा॒नम् । इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननग्ं॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ 3 ॥
अथाध्या॒त्मम् । अधरा हनुः पू᳚र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हास॒ग्ं॒हिताः । य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ 4 ॥
इति तृतीयो-ऽनुवाकः ॥

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽध्य॒मृता᳚थ्स-म्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑र-म्मे॒ विच॑र्​षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्या-म्भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑-ऽसि मे॒धया-ऽपि॑हितः । श्रु॒त-म्मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ 1 ॥
कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शा-म्प॒शुभि॑स्स॒ह स्वाहा᳚ । आमा॑ यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । विमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । प्रमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ ॥ 2 ॥
यशो॒ जने॑-ऽसानि॒ स्वाहा᳚ । श्रेया॒न्वस्य॑सो-ऽसानि॒ स्वाहा᳚ । त-न्त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मिन्᳚-थ्स॒हस्र॑शाखे । निभ॑गा॒ह-न्त्वयि॑ मृजे॒ स्वाहा᳚ । यथा-ऽऽपः॒ प्रव॑ता॒-ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । ए॒व-म्मा-म्ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा᳚ । प्र॒ति॒वे॒शो॑-ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ 3 ॥
इति चतुर्थो-ऽनुवाकः ॥

भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मुहस्मै॒ ता-ञ्च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ 1 ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूग्ं॑षि ॥ 2 ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते । भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे᳚-ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ 3 ॥
इति पञ्चमो-ऽनुवाकः ॥

स य ए॒षो᳚-ऽन्तरहृ॑दय आका॒शः । तस्मि॑न्न॒य-म्पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्​षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 1 ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीर॒-म्ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑म॒-म्मन॑ आनन्दम् । शान्ति॑समृद्धम॒मृतम्᳚ । इति॑ प्राचीन यो॒ग्योपा᳚स्स्व ॥ 2 ॥
इति षष्ठो-ऽनुवाकः ॥

पृ॒थि॒व्य॑न्तरि॑क्ष॒-न्द्यौर्दिशो॑-ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑-ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षु॒श्श्रोत्र॒-म्मनो॒ वाक्त्वक् । चर्म॑मा॒ग्ं॒सग्ग् स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒-वाँ इ॒दग्ं सर्वम्᳚ । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ 1 ॥
इति सप्तमो-ऽनुवाकः ॥

ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्᳚ । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒र-म्प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥ 1 ॥
इत्यष्टमो-ऽनुवाकः ॥

ऋत-ञ्च स्वाध्यायप्रव॑चने॒ च । सत्य-ञ्च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्र-ञ्च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुष-ञ्च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ 1 ॥
इति नवमो-ऽनुवाकः ॥

अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठ-ङ्गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ 1 ॥
इति दशमो-ऽनुवाकः ॥

वेदमनूच्याचार्यो-ऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒-वँद । धर्म॒-ञ्चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रिय-न्धनमाहृत्य प्रजातन्तु-म्मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्या-न्न प्रम॑दित॒व्यम् ॥ 1 ॥
देवपितृकार्याभ्या-न्न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ 2 ॥
नो इ॑तरा॒णि । ये के चारुमच्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषा-न्त्वया-ऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑या-ऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । सं​विँ॑दा दे॒यम् । अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥ 3 ॥
ये तत्र ब्राह्मणा᳚स्सम्म॒र्​शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु । ये तत्र ब्राह्मणा᳚स्सम्म॒र्​शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्मकामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ 4 ॥
इत्येकादश-ऽनुवाकः ॥

श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥
इति द्वादशो-ऽनुवाकः ॥

॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं
नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् ।
जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा ।
साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ 4 ॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्-क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो ॥ 5 ॥

सुनें तैत्तिरीय उपनिषद् शीक्षावल्ली स्तोत्र | Listen Taittiriya Upanisha Shikshavalli Stotra

तैत्तिरीय उपनिषद् शीक्षावल्ली || Taittiriya Upanisha Shikshavalli Lyrics & Meaning || Sri Sathya Sai Official

तैत्तिरीय उपनिषद् शीक्षावल्ली का संक्षिप्त अर्थ | Taittiriya Upanisha Shikshavalli Brief Meaning in Hindi

(प्राणवृत्ति और दिन का अभिमानी देवता) मित्र (सूर्यदेव) हमारे लिए सुखकर हो। (अपानवृत्ति और रात्रि का अभिमानी) वरुण हमारे लिए सुखवाह हो हमारे लिये सुखावह हों । [ नेत्र और सूर्य का अमिमानी देवता ] अर्यमा हमारे लिये सुखप्रद हो | बल का अभिमानी इन्द्र तथा [ वाक और बुद्धिका अभिमानी देवता ] बृहस्पति हमारे लिये शान्तिदायक हो। तथा जिसका पादविक्षेप ( डग ) बहुत विस्तृत हैं वह [ पादाभिमानी देवता ] विष्णु हमारे लिये खुखदायक हो । ब्रह्मा [ रूप वायु ] को नमस्कार है| हे वायो ! तुम्हें नमस्कार है | तुम ही प्रत्यक्ष ब्रह्म हो । अतः तुम्ही को मैं प्रत्यक्ष ब्रह्म कहूँगा | तुम्हीं को ऋतु (शास्त्रोक्त निश्चित अर्थ ) कहूँगा और [ क्योंकि वाक्‌ और शरीर से सम्पन्न होने वाले कार्य भी तुग्हारे ही अधीन हैं इसलिये ] तुम्हीं को में सत्य कहूंगा | अतः तुम [ विद्यादान के द्वारा ] मेरी रक्षा करो तथा ब्रह्म का निरूपण करने वाले आचार्य की भी [ उन्हें वक्तृत्व-सामर्थ्य देकर ] रक्षा करो । मेरी रक्षा करो और वक्ता की रक्षा करो | आधिभौतिक, आध्यात्मिक और आधिदैविक तीनों प्रकार के तापों की शान्ति हो ॥ १ ॥ हम शीक्षा की व्याख्या करते हैं । [अकारादि ) वण, उदात्तादि, खर, [ हखादि ] मात्रा, [ शब्दोचारणमें प्राण का प्रयक्षरूप बल, एक ही नियम से उचारण करना रूप ) साम तथा सन्तान ( संद्धिता ) [ ये ही विपय इस अध्याय से सीखे जाने योग्य हैं ]। इस प्रकार शीक्षाध्याय हम [ शिष्य और आचार्य ] दोनों की साथ-साथ यश प्राप्त हो और हमें साथ-साथ ब्रह्मतेज की प्राप्ति हो। [ क्योंकि जिन पुरुषों की चुद्धि शस्त्राध्यन परिमार्जित हो गयी है। वे भी परमार्थतत्व को समझने में सहसा समर्थ नहीं होते, इसलिए अब हम पाँच अधिकरणों-
में संहिता की उपनियद्‌ [ अर्थात्‌ संहितासम्बरन्धिनी उपासना ] की व्याख्या करेंगे । अधि, अधिज्यौतिष, अधिविद्य, अधिप्रज और अध्यात्म -ये ही पाँच अधिकरण हैं. । पण्डितजन उन्हें. महासंहिता कहकर पुकारते हैं. । अब अधिलोक ( लोकसम्बन्धी) दर्शन (उपासना ) का बर्णन किया जाता है-संहिताका प्रथम वर्ण पृथिवी हैं, अन्तिम वर्ण लोक है, मध्यमाग आकाश है ॥ १॥ और वायु सन्धान ( उनका परस्पर सम्बन्ध करनेवाला ) है। [अधिलोकठपासक संहितामें इस प्रकार इष्टि करनी चाहिये |–यह अधिलोक दर्शन कहा गया । इसके अनन्तर अधिज्यौतिष दर्शन कहा जाता है-यहाँ संहिता का प्रथम वर्ण अप्नि है, अन्तिम वर्ण चुढोक है, मध्यमाग आप ( जछ ) है और विद्युत्‌ सन्धान है। जो वेदों में ऋषभ ( श्रेष्ठ अथवा प्रधान ) और सबरूप हैं. तथा वेदरूप अमृत से प्रधानरूप से आविर्भूत हुआ हैं. वह [ ओंकाररूप ] इन्द्र ( सम्पूर्ण कामनाओं का ईशा ) मुझे मेघा से प्रसत्त अथवा बल्युक्त करे। हे देव ! मैं अमृतत्व ( अमृतत्व के हेतुभूत ब्रह्मज्ञान ) का धारण करने- वाल्य होऊँ | मेरा शरीर विचक्षण (योग्य) हो । मेरी जि अत्यन्त मधुमती ( मधुर भाषण करने वाली ) हो। मैं कानों ते खूब श्रवण करूँ । [ हे ओंकार ! ] त्‌ अक्षका कोप है और लोकिक बुद्धि से ढँका हुआ है. [ अर्थात्‌ लोकिक बुद्धि के कारण तेरा ज्ञान नहीं होता ]। तह. मेरी श्रवण की हुई विद्या की रक्षा कर । मेरे लिए वस्त्र, गो और अन्न-पान को सर्वदा शीघ्र ही के आने वाली और इनका विस्तार करने वाली श्रीको [ भेड-बकरी आदि ] ऊनवाले तथा अन्य पशुओंके सह्दित बुद्धि प्राप्त कराने के अनन्तर त्‌ मेरे पास ला–स्वाहा। ब्रह्मचारी लोग मेरे पास | आवे–खाहा । ब्द्यचारीछोंग मेरे प्रति निप्कपट हों—खाहा । ब्रह्मचारी-लोग मेरे प्रति ( यथार्थ ज्ञान ) को धारण करें–खाहा | ब्रह्मचारी लोग दम ( इन्द्रियदमन) करें–स्वाहा । ब्रह्मचारी लोग शाम ( मनोनिम्नह ) करें–स्वाहा । [इन मन्त्रों के पीछे जो ‘स्वाहा’ शब्द है वह इस बात को सूचित करता है कि ये हवन के लिये हैं ] भू, भुवः और खुबः ये तीन व्याहतियाँ हैं । उनमें से ‘महः इस चौथी व्याहति कों माह्मचमस्य ( महाचमसका पुत्र ) जानता है । वह महः ही ब्रह्म है| वही आत्मा हैं। अन्य देवता उसके अंग ( अवयब ) हैं। “भू यह व्याहति यह लोक है, ‘भुव” अन्तरिक्ष लोक है और ‘सुव यह स्वर्णलोक है ॥॥ १ ॥ तथा ‘महः” आदित्य है. | आदित्य से ही समस्त लोक वृद्धियों को प्राप्त होती हैं । ‘भू:” यही अग्नि है, वायु है, ‘सुबचः आदित्य है तथा ‘महः” चन्द्रमा है) चन्द्रमा से ही सम्पूर्ण ज्योतियाँ वृद्धि को प्राप्त होती हैं । ‘भू: यही ऋक हैं, ‘भुव साम है, ‘सुव यजुः है॥ २ ॥| तथा ‘महः ब्रह्म है| अन्न से ही समस्त वेद बृद्धि को प्राप्त होते हैं। “भू यही प्राण है, ‘भुबः अपान है, ‘सुबः व्यान है तथा “महः अन्न है | अन्न से ही समस्त प्राण वृद्धि को प्राप्त होते हैं | इस प्रकार ये चार व्याहतियाँ हैं | इनमें से प्रत्येक चार-चार प्रकार की है | जो इन्हें जानता है वह ब्रह्म को जानता है । सम्पूर्ण देवगण उसे बलि ( उपहार ) समर्पण करते हैं।

तैत्तिरीय उपनिषद् शीक्षावल्ली की अन्य जानकारी | Taittiriya Upanisha Shikshavalli Ki Anya Jankari

शिक्षावल्ली में १२ अनुवाक हैं । उनमें वर्णित विषय निम्नलिखित हैं-

अनुवाक १ शान्तिमन्त्र
अनुवाक २ वर्ण-स्वर-मात्रा-बल-साम-सन्तान आदि क्रम से वर्णित हैं।
अनुवाक ३ विश्व-ज्योति-विद्या-प्रजा-देह आदि किन तत्त्वों के संयोग से क्या उत्पन्न होता है।
अनुवाकः ४ बुद्धि और शक्ति के अधिष्ठाता देवता इंद्र का वर्णन और प्रार्थना है।
अनुवाकः ५ – चार मंत्र भूः भुवः स्वः महः की पूजा का अर्थ व क्रम बताया गया है
अनुवाकः ६ मनुष्‍य द्वारा अंतर्हृदय में उल्‍लेखित आनंद का नाम क्‍या है? अमृत ​​​​क्या है संक्षेप में समझाया गया है
अनुवाकः ७ – वर्णित है कि शरीर पाँच प्राणियों से बना है, यह निर्धारित करके कि प्राणियों में पाँच भाग हैं और शरीर में पाँच भाग हैं
अनुवाकः ८ विभिन्न अवसरों पर ओंकार के दस उपयोगों का वर्णन किया गया है
अनुवाकः ९ स्वाध्याय और प्रवचन की आवश्यकता को परिभाषित किया गया
अनुवाकः १०- इसमें त्रिभुज द्वारा निर्मित स्वप्रतिबिम्ब का वर्णन है
अनुवाक ११ अध्ययन समाप्त करके घर जाने के लिये उद्यत शिष्य को गुरु का उपदेश
अनुवाक १२ – शान्तिमन्त्र

Leave a Comment